PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Sa to Suvarnaa)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home


Sa - Sangata  ( words like Samjnaa / Sanjnaa / Sangya, Samvatsara / year, Samvarta, Sansaara / Samsaara, Samskaara / Sanskaara, Sagara, Samkarshana / Sankarshana, Samkraanti / Sankraanti etc.)

Sangama - Satyaloka (Sangama/confluence, Sangeeta / music, Sati, Satva, Satya/truth, Satyatapaa, Satyabhaamaa etc.)

Satyavat - Sanatkumaara ( Satyavatee /Satyavati, Satyavrata, Satyaa, Satraajit, Sadyojaata, Sanaka, Sanakaadi, Sanatkumaara etc. )

Sanatsujaata - Saptarshi (Sanandana, Sanaatana, Santaana, Sandhi, Sandhyaa, Samnyaasa / Sanyaasa, Saptami, Saptarshi etc.)

Saptavimshatikaa - Samunnata ( Saptashati, Sabhaa / Sabha, Samaadhi, Samidhaa, Samudra / ocean, Samudramanthana etc.)

Samriddhi - Sarasvati (Sampaati / Sampaatee, Sara / pond, Saramaa, Sarayuu, Sarasvati / Sarasvatee etc. )

Saritaa - Sahajaa (Sarga / manifestation, Sarpa / serpent, Sarva / whole, Savana, Savitaa etc.)

Sahadeva - Saadhya ( Sahadeva, Sahasranaama, Sahsraaksha, Sahasraarjuna, Saagara, Saankhya / Samkhya, Saadhu, Saadhya etc.)

Saadhvee - Saalakatankataa (  Saabhramati, Saama, Saamba / Samba, Saarasvata etc.)

Saalankaayana - Siddhasena  (Saavarni, Saavitri, Simha / lion, Simhikaa, Siddha etc.)

Siddhaadhipa - Suketumaan  (Siddhi / success, Sineevaali, Sindhu, Seetaa / Sita, Sukanyaa, Sukarmaa etc.) 

Sukesha - Sudarshana ( Sukesha, Sukha, Sugreeva, Sutapaa, Sudarshana etc. )

Sudarshanaa - Supaarshva   (Sudaamaa / Sudama, Sudyumna, Sudharmaa, Sundara / beautiful, Supaarshva etc.)

Suptaghna - Sumedhaa  ( Suprateeka, Suprabhaa, Subaahu, Subhadraa, Sumati, Sumanaa , Sumaalee / Sumali, Sumukha etc.)

Sumeru - Suvarnaa (Suyajna, Sumeru, Suratha, Surabhi / Surabhee, Surasaa, Suvarchaa, Suvarna / gold etc.)

 

 

सहस्रम्

नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान्संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति। ऐ.ब्रा. २.४१

अथैषा सहस्रतमी, तां यद् दद्याद् रिच्येतानु गर्भाश् शुष्येयुर्, यन् न दद्याद् ऊनम् अस्य सहस्रं दत्तं स्यात्।..तत् तत् कलां वानु सहस्रम् इयात्। कलावानु सहस्रंऊर्णासूत्रम् उ वै गोः किञ्चचिद् इव दत्तम् अस्य सहस्रं भवति, नात्मना रिच्यते। जै २.२५७

द्विपाद्वा एष पशुर्यत्पुरुषस्तं मा हिंसीरित्येतत्सहस्राक्षो मेधाय चीयमान इति हिरण्यशकलैर्वा एष सहस्राक्षो मेधाय माश ७.५.२.३२

सर्वम् वै तद् यत् सहस्रम् सर्वम् प्रातर् अनुवाकः तत् सर्वेण सर्वम् आप्नोति य एवम् वेद तद् उ ह स्म आह कौषीतकिः प्रजापतिर् वै प्रातर् अनुवाकः अपरिमित उ वै प्रजापतिः । कौ० ११ । ७

सर्वम् वै तद् यत् सहस्रम् सर्वम् विश्वजित् तत् सर्वेण सर्वम् आप्नोति य एवम् वेद कौ २५ । १४

सहस्रे ग्रहीतव्यः । सर्वं वै सहस्रं सर्वमेष सर्ववेदसे ग्रहीतव्यः सर्वं वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्ठे ग्रहीतव्यः सर्वं वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये ग्रहीतव्यः सर्वं हि तत्सत्त्रे ग्रहीतव्यः सर्वं वै सत्त्रं सर्वमेष एतानि ग्रहणानि माश. ४.६.१.[१५]

सहस्रम्भरः शुचिजिह्वो अग्निरिति सर्वं वै सहस्रं सर्वम्भरः॥ माश ६।४।२। ७ ,

तेन परमः पशुः सहस्रपोषम्पुषेयमित्याशिषमेवैतदाशास्ते भूमा वै सहस्रं भूमानं गच्छानीत्येवैतदाह। श० ३।३।३। ८ ।।

अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वमेवैतेनाप्नोति सर्वं जयति
परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद । तां० १६।९।२

सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माकमितरदिति स इमाँल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्रमितीमे लोका इमे वेदा अथो वागिति ब्रूयाद्। ऐ० ६॥ १५

शताय स्वाहेत्याह शतायुर्वै पुरुषः शतवीर्यः आयुरेव वीर्यमवरुन्धे सहस्राय स्वाहेत्याह आयुर्वै सहस्रम् । तै० ३।८। १५ । ३ ॥ ३॥ ८॥ १६॥ २ ॥

उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं। तां० १६। १० । १२

सहस्रम्भरः

एषा ह वाऽ अस्य (अग्नेः ) सहस्रम्भरता यदेनमेकं सन्तं बहुधा विहरन्ति । ऐ० १ । २८ ॥

सहस्रयोजनम् ( यजु० १६ । ५४ ॥ ) अयमग्निः सहस्रयोजनम् । श०

९। १ । १।२९ ॥ ,,

एतद्ध परमं दूरं यत्सहस्रयोजनम् । श० ९ । १ ।१।२८॥ ।

सहस्रवर्तनि साम वै सहस्रवर्त्तनि ( सहस्रवर्त्मा सामवेदः-इति

पातञ्जलमहाभाष्यस्य अ० १ पा० १ प्रथमाह्निके ) ।

ष० १ ॥ ४ ॥

सहस्रवांस्तोकवान्पुष्टिमान् ( ऋ० ३। १३ । ७ ) संवत्सरो वै समस्तः

सहस्रवांस्तोकवान्पुष्टिमान् । ऐ० २। ४१ ॥

आत्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान् । ऐ० २। ४० ॥

सहस्रस्य प्रतिमां विश्वरूपमिति पुरुषो वै सहस्रस्य प्रतिमा पुरुषस्य ह्येव सहस्रं भवति श० ७।५।२। १७

सहस्रियो वाजः ( यजु० १२ । ४७ ) आपो वै सहस्रियो वाजः । श०

७।१।१।२२॥