पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Bhakta  to Maghaa )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Bhakta - Bhagamaalaa ( words like Bhakta / devotee, Bhakti / devotion, Bhaga, Bhagamaalaa etc.)

Bhagavata - Bhadra ( Bhagini / Bhaginee / sister, Bhageeratha, Bhajamaana, Bhanda, Bhadra etc.)

Bhadraka - Bhadraa (  Bhadrakaali / Bhadrakaalee, Bhadrasena, Bhadraa etc.)

Bhadraayu - Bharata ( Bhadraayu, Bhadraashva, Bhaya / fear, Bharata etc. )

Bharata - Bhava ( Bharadvaaja, Bharga, Bhalandana, Bhava etc. )

Bhavamaalini - Bhaandira (  Bhavaani, Bhasma / ash, Bhaagavata, Bhaandira etc. )

Bhaata - Bhaaradwaaja ( Bhaadrapada, Bhaanu, Bhaanumati, Bhaarata, Bhaarati, Bhaaradwaaja etc.)

Bhaarabhuuti - Bhaashya (  Bhaarabhuuti, Bhaargava, Bhaaryaa, Bhaava etc.)

Bhaasa - Bheema  ( Bhaasa, Bhaaskara / sun, Bhikshaa / begging, Bhilla, Bheema etc.)

Bheemanaada - Bheeshmaka (  Bheemaratha, Bheemaa, Bheeshma, Bheeshmaka etc.)

Bhukti - Bhuuta (  Bhuja, Bhuva, Bhuu, Bhuugola / geology, Bhuuta / past / Bhoota / matter etc.)

Bhuutaketu - Bhuumi ( Bhuuti, Bhuumaa, Bhuumi / earth etc.)

Bhuumimitra - Bhrigu  (  Bhuuri, Bhrigu etc. )

Bhrigukachchha - Bhairava ( Bhringa, Bherunda, Bhairava etc.)

Bhairavi - Bhojana  ( Bhairavi, Bhoga, Bhogavati, Bhoja, Bhojana / food etc.)

Bhojaa - Bhruushunda ( Bhautya, Bhauma, Bharamara, Bhraataa / brother etc. )

Ma - Magha  ( Makara, Makaranda, Makha, Magadha, Maghaa etc.)

 

 

 

 

 

 

 

भिक्षा

चतुर्द्धा भूतानि प्रविशति। अग्निं पदा मृत्युं पदाऽऽचार्यं पदात्मन्येवास्य चतुर्थः पादः परिशिष्यते - ११.३.३.[३]

स यदग्नये समिधमाहरति। य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति - ११.३.३.[४]

अथ यदात्मानं दरिद्रीकृत्येव। अह्रीर्भूत्वा भिक्षते य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति - ११.३.३.[५]

अथ यदाचार्यवचसं करोति यदाचार्याय कर्म करोति य एवास्याचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यान्मन्धत्ते स एनमाविशति माश ११.३.३.[६]

त्वे अग्ने सुमतिं भिक्षमाणाः। दिवि श्रवो दधिरे यज्ञियासः । नक्ता च चक्रुरुषसा विरूपे । कृष्णं च वर्णमरुणं च संधुः । - तैब्रा २.७.१२.५

अग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशँ सुप्रतीकँ स्वञ्चम् । - तैब्रा २.८.२.४

क्षुधे गोविकर्तम् । क्षुत्तृष्णाभ्यां तम् । यो गां विकृन्तन्तं मा सं भिक्षमाण उपतिष्ठते तैब्रा ३.४.१६.१

चतुर्थकालपानभक्तः स्यात् । अहरहर्वा भैक्षमश्नीयात् । - तैआ १.३२.१

स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन स यद् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्द्धे यो ऽस्याग्नौ भवति स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्द्धे यो ऽस्याचार्ये भवति स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्द्धे यो ऽस्य ग्रामे भवति स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं पादम् अवरुन्द्धे यो ऽस्य मृत्यौ भवति ॥ गोब्रा. १.२. ३

ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति किम् अस्या वृञ्जीताददत्या इति इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणी मा मायम् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति गोब्रा १.२.६